26/04/2026
सिरसा-जनपदस्य जनपदसमीक्षायोजनागोष्ठी वि० सं० २०८३तमस्य वर्षस्य २६ अप्रैल, २०२६तमे दिनाङ्के, योगाश्रमे सिरसानगरे सम्पन्ना।
अस्यां गोष्ठ्यां हिसारविभागसंयोजकः शैलेन्द्रमहोदयस्य प्रवासः च जातः। एषा गोष्ठी पञ्चसत्रात्मकी च आसीत्।
१.) वृत्तकथनम् - अस्मिन् सत्रे जनपदस्य गतवर्षस्य वृत्तविषये जनपदमन्त्री बलजिन्द्रः सर्वेषां ज्ञानं कृतवान्,
२.) बौद्धिकम् - अस्मिन् सत्रे शैलेन्द्रमहोदयः संघटनपद्धतिः विषये पाथेयं दत्तवान् कार्यकर्तॄन् प्रेरितवान् च,
३.) योजनाश्रवणम् - जनपदमन्त्री बलजिन्द्रः अस्मिन् वर्षस्य जनपदस्य का योजना किं च लक्ष्यं? इति विषयस्य ज्ञानं सर्वेषां कृतवान्,
४.) खण्डगोष्ठ्यः - षड् खण्डानां विभागद्वयं कृत्वा खण्डगोष्ठ्यः परस्परं चर्चा च अभवन्,
५.) योजनाप्रस्तुतिकरकरणम् - अस्मिन् सत्रे हरप्रीतः रानियां-खण्डस्य, निशा चौपटा-खण्डस्य, ललितः सिरसा-खण्डस्य च किं लक्ष्यम् अस्मिन् वर्षस्य इति प्रस्तुतवन्तः। सर्वेषु खण्डेषु प्रमुखं ध्यानं भविष्यति संस्कृतसम्भाषणस्य सामाजिकशिविरम्, साप्ताहिकमेलनं, पत्राचारमाध्यमेन पाठनम् च।
६.) समापनसत्रे नूतनदायित्वानां घोषणा तथा च परिवर्तनानि अभवन्।
- कविता - जनपद सह-शिक्षणप्रमुखा
- चन्द्रभानः - जनपद सह-पत्राचारप्रमुखः
- विनोदः - रानियां खण्ड-प्रचारप्रमुखः
७.) गोष्ठ्याः समापनं जनपदाध्यक्षः श्री द्रोणप्रसादः कोईराला महोदयस्य आशीर्वचनैः, मार्गदर्शनेन च अभवत्। महोदयः सङ्घटने शक्तिः इति विषये अपि उक्तवान्।
अस्यां गोष्ठ्यां जनपदस्य आहत्य सङ्ख्या दयित्ववतां द्वादश (१२) आसीत्।