23/04/2026
Jai Shankar. We hope you enjoyed this week's Akshaya Tritiya special quiz. This year, Akshaya Tritiya was celebrated on 19th/ 20th April. Shoutout to everybody who got that correct.
Story:
महाभारते एका कथा अस्ति। पाण्डवाः द्यूतक्रीडायां पराजयं प्राप्य द्वादश वर्षाणां कृते द्रौपद्या सह वनवासं गताः। तत्र निबिडवनेषु खाद्यवस्तूनाम् अन्वेषणाय ते बहु भ्रमणं कृतवन्तः। श्रीकृष्णः तेषां साहाय्यं कर्तुं अक्षयपात्रमेकं तेभ्यः अनुगृहीतवान्। तस्मात् कतिपयेभ्यः जनेभ्यः उत्तमभोजनं झटिति सिद्धं भवति स्म। यस्मिन् दिने ते अक्षयपात्रं प्राप्तवन्तः तद्दिनम् अक्षय- तृतीया इति जनैः आचर्यते। अक्षयतृतीया तिथौ भगवतः प्रार्थनया जीवने सुख समृद्धिः वर्धते इति सर्वेषां विश्वासः। एतस्मिन् दिने भगवतः परशुरामस्य जन्म अभवत् इति मन्यते। महाभारतस्य लेखनं गजमुखेन एतस्मिन् दिने आरब्धं अभवत् इत्यपि मन्यते। अतः एतत् नूतनकार्यारम्भं कर्तुं शुभदिनम् अस्ति।
Translation:
There is a story in Mahabharata. The Pandavas were defeated in a game of dice( a gambling game) and went in exile to a forest along with Draupadi for twelve years. In this dense forest they wandered a lot in search of food. Shri Krishna gave them a pot which was inexhaustible, to help them. This pot could serve good food to any number of people, very quickly. The day that they received this ' Akshayapaatram' is celebrated by people as 'Akshaya tritiyaa'. People believe that fervent prayers to God on this day bring abundant peace and prosperity. It is believed that Lord Parashurama was born on this day. It is also believed that Ganapati ( Gajamukha) started writing the 'Mahabharata' on this day. Therefore this day is auspicious to start any new venture.