09/21/2026
We invite you to join us for the third of a series of webinars that will showcase scholarly lectures entirely in Samskritam.
Our third speaker is Dr. Sthaneshwar Timalsina, who will deliver a talk on the following subject: शाक्तदर्शनसर्वस्वं श्रीविद्याहृदयम् ।
यद्यपि भारतदेशः शक्तिप्रधानस्तथापि बह्व्यः सन्ति भ्रान्तयः शाक्तपरम्परामधिकृत्य। तत्र कौलाचारविषये वामाचारादिविषये प्रायो जनावितृष्णायुताः। परन्तु ते प्रायो न जानन्ति शङ्कराचार्योऽपि भगवान्मातरमन्नपूर्णां प्रति शरणागतः, स च श्रीविद्याया महान् साधकः। तत्रशाङ्करमठेषु श्रीविद्याविषयमवलम्ब्य पूजार्चनादिप्रचलनमद्यापि चलत्येव। तत्रकथनमस्ति नेपालदेशेऽपि कश्चन शङ्कराचार्यो गतवान् पशुपतिपूजाविधौ श्रीविद्यापूजाप्रचलनम् अपि अस्थापयदिति। तमेव शाक्तदर्शनमवलम्ब्य स्वकीयरचनां श्रीविद्याहृदयं भवत्समक्षे प्रस्तौमि। श्रीविद्याहृदयं नाम त्रिशती। अनुष्टुप्छन्दबद्धोऽयं ग्रन्थः। अयं शाक्तदर्शनस्य समग्रमपि संक्षेपेण त्रिपुरासुन्दर्युपासामाध्यमेन प्रस्तौति।
Date/Time: Sunday, Sept 27, 2026 at 10:30 AM EDT (7:30AM PDT / 8:00PM IST)
Please register at https://upenn.zoom.us/webinar/register/WN_fUA2eSfPSSWrvK8toRMWow
About the Speaker:
आचार्यः डॉ॰ स्थाणेश्वर-तिमल्सिना-महाभागः सम्प्रति न्यूयॉर्कनगरस्थे Stony Brook University इति विश्वविद्यालये Asian Studies इति विभागे Indic Studies इत्यस्य प्रतिष्ठिताध्ययनपीठस्य अध्यक्षपदवीम् अलङ्करोति । भारतीयदर्शन-धर्म-तन्त्रादिविषयेषु विहितभूरिपरिश्रमोऽयं विद्वान् अध्यापने गवेषणायां च विशेषप्रसिद्धिं प्राप्तवान् ।
तिमल्सिनामहाशयः San Diego State University इति विश्वविद्यालये धर्माध्ययनविभागे दर्शनशास्त्रविभागे च अध्यापनकार्यं कृतवान् । एतदतिरिच्य University of California, Santa Barbara इति विश्वविद्यालये तथा St. Louis-नगरस्थे Washington University इति विश्वविद्यालयेऽपि अध्यापितवान् । एवं विविधेषु प्रतिष्ठितविश्वविद्यालयेषु धर्मदर्शनभारतीयविद्याविषयकाध्यापनेन गवेषणया च तस्य विद्वत्ता सुप्रतिष्ठिता वर्तते ।
Ācārya Dr. Sthaneshwar Timalsina is currently the Endowed Chair of Indic Studies at Stony Brook University, New York in the Department of Asian Studies. He has also taught in both the Department for the Study of Religions and the Department of Philosophy at San Diego State University, University of California, Santa Barbara and Washington University in St. Louis.
We look forward to seeing you there. Namaste.
Zoom unifies cloud video conferencing, simple online meetings, and cross platform group chat into one easy-to-use platform. Our solution offers the best video, audio, and screen-sharing experience across Zoom Rooms, Windows, Mac, iOS, Android, and H.323/SIP room systems.